ॐ स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे। अवतारवरिष्ठाय रामकृष्णाय ते नमः॥ ॐ नमः श्री भगवते रामकृष्णाय नमो नमः॥ ॐ नमः श्री भगवते रामकृष्णाय नमो नमः॥ ॐ नमः श्री भगवते रामकृष्णाय नमो नमः॥

श्री सारदादेवी सुप्रभातम्


श्री सारदादेवी सुप्रभातम्

मातः समस्तजगतां परमस्य पुंसः, शक्तिस्वरूपिणि शिवे करुणाचिते।

लोकस्य शोकशमनाय कृतावतारे, श्रीसारदेऽस्तु शिवदे तव सुप्रभातम् ।।1 ।।

बाल्ये भवस्य तमसः परिहारयित्रे, लीलामनुष्यवपुषेऽथ गदाधराय।

दत्ते तदंर्पितधियाप्तसमस्तविद्ये, श्रीसारदेऽस्तु शिवदे तव सुप्रभातम् ।।2।।

बाल्यात्परे वयसि भर्तरि सम्प्रवृत्ताम्, उन्मत्त इत्यनुचितामवधूय वार्ताम् । । 

तद्दर्शनक्रमितदुर्गमदूरमार्गे, श्रीरामकृष्णदयिते तव सुप्रभातम् ।।।3 ।।

संन्यासिनं पतिमवेक्ष्य च नोद्विजाने, सेवार्पितत्रिकरणे परिशुद्धचित्ते। 

तत्साधनाचरमसीम्नि समर्पिताच, श्रीरामकृष्णपरमेश्वरि सुप्रभातम् ।।4।।

यामेव चात्मजननीं भवातारिणीं च, सेवापरां तु बुबुधे गुरुरस्तभेदः ।

तस्याः समस्तजगतोऽस्य शरण्यमूर्तेः, श्रीरामकृष्णदयिते तव सुप्रभातम् ।।5।।

आवृण्वर्ती परमिकां प्रकृतिं स्वकीयां, संसारिणीव बहुदुःखजले भवाब्धौ।

सर्वंसहे श्रितजनोद्धरणैकदीक्षे, श्रीरामकृष्णदयिते तव सुप्रभातम् ।।6।।

गेहस्य मार्जनविधौ मम कर्मशान्तिं, नायात्सङ्ख्यकरणैः क्रियमाणमेवम् । 

आकस्मिकोक्तिविवृताखिलशक्तिरूपे, श्रीरामकृष्णदयिते तव सुप्रभातम् ।।7।।

श्रीरामकृष्णदयिते तदधीनसत्वे, तद्भक्तवृन्दपरिपालिनि मुक्तिदात्रि।

तद्भावरक्तहृदये तदभिन्नतत्वे, मातः समस्तजगतां तव सुप्रभातम् ।।8।।