देवीप्रणामः
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ।।
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ।।
शरणागतदीनार्तपरित्राणपरायणे।
सर्वस्यातिहरे देवि नारायणि नमोऽस्तु ते।।
जय नारायणि नमोऽस्तु ते । जय नारायणि नमोऽस्तु ते।
जय नारायणि नमोऽस्तु ते । जय नारायणि नमोऽस्तु ते ।
जय नारायणि नमोऽस्तु ते ।।