ॐ स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे। अवतारवरिष्ठाय रामकृष्णाय ते नमः॥ ॐ नमः श्री भगवते रामकृष्णाय नमो नमः॥ ॐ नमः श्री भगवते रामकृष्णाय नमो नमः॥ ॐ नमः श्री भगवते रामकृष्णाय नमो नमः॥

Thursday, April 2, 2020

भगवान श्री रामकृष्णदेवस्तोत्रम्


भगवान श्री रामकृष्णदेवस्तोत्रम्

ॐ ह्रीं ऋतं त्वमचलो गुणजिद् गुणेड्यो

नक्तन्दिवं सकरुणं तव पादपद्मम् ।

मोहङ्कषं बहुकृतं न भजे यतोऽहं

तस्मात्त्वमेव शरणं मम दीनबन्धो ||1||

 

भक्तिर्भगश्च भजनं भवभेदकारि

गच्छन्त्यलं सुविपुलं गमनाय तत्त्वम्।

वक्त्रोद्धतं तु हृदि मे न च भाति किञ्चित्

तस्मात्त्वमेव शरणं मम दीनबन्धो ।।2।।

 

तेजस्तरन्ति तरसा त्वयि तृप्ततृष्णा

रागे कृते ऋतपथे त्वयि रामकृष्णे।

मर्त्यामृतं तव पदं मरणोर्मिनाशं

तस्मात्त्वमेव शरणं मम दीनबन्धो ।।3।।

 

कृत्यं करोति कलुषं कुहकान्तकारि,

 ष्णान्तं शिवं सुविमलं तव नाम नाथ।

यस्मादहं त्वशरणो जगदेकगम्य

तस्मात्त्वमेव शरणं मम दीनबन्धो ।।4।।

 

ॐ स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे।

अवतारवरिष्ठाय रामकृष्णाय ते नमः ।।

 ॐ नमः श्री भगवते रामकृष्णाय नमो नमः ।।